📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ३
Page 1
Download 📥
________________ अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३.१ ॥ 'एषा तेऽभिहिता साङ्ख्ये' (२-३९) इत्यन्तेन 'न त्वेवाहं' (२- २) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा, तज्ज्ञानोपायं च 'योगेत्विमां श्रृण्वि ति ( २-३९ ) प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा' (२- ४५) इत्यादिनोक्त्वा 'कर्मजं बुद्धियुक्ता हि (२- ५१) इत्यादिना किंचित्प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पौर्वापर्यं ध्येयम् 'दूरेण ह्यवरं कर्म' (२- पूर्वोत्तराध्याययोः ४९) इत्युक्ते लब्धावसरः पृच्छति ॥ ज्यायसी चेति । 'दूरेण ह्यवरं कर्म बुद्धियोगात्, कृपणाः फलहेतवः' (२- ४९) इत्यादिनोक्तदिशा बुद्धिः कर्मणः : सकाशात् ज्यायसी चेत् श्रेष्ठा यदि । हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं किमर्थ मां नियोजयसीत्येकः प्रशनः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजयसीत्यन्यः । अयं भावः । 'सर्व एते पुण्यलोका भवन्ती' इत्यादिफलश्रवणेन सर्वकर्मणां 'हतो व प्राप्स्यसि स्वर्ग' (२- ३७) इत्यादियुद्धस्यापि काम्यत्वातेषां च बुद्धियोगादवरत्वात्, यत्याश्रमविहितानां शमादीनां फलश्रवणेनाकाम्यत्वात्, 'शान्तो दान्त' इत्युपक्रम्यात्मानं पश्येदिति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्धयस्व भारतेति नियोजनं युक्तमिति । अत्र केशवशब्दार्थ उक्तः प्रथमाध्याये ।न जायते अर्दयति च संसारमिति दशमभाष्ये । नञः परनिपातः अत एव नलोपाभावः । उत्तरपदे परतः तस्य स्मरणात् इति तट्टीकोक्तदिशा च जनार्दनशब्दार्थो ध्येयः इति ॥ ३.१॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३.२॥ ननु 'बुद्धयायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसीति' (२- ३९) बुद्धिपदोक्तेयुद्धाख्यकर्मणोऽपि १